भारते सामाजिकमाध्यमेषु कोट्यधिकानाम् अनुयायिनां लोकप्रिया यात्राब्लॉगर् यूट्यूबर् च ज्योतिमल्होत्रा राष्ट्रविरोधीक्रियाकलापस्य आरोपे पाकिस्तानस्य गुप्तचरसंस्थाभिः सह सम्बद्धतायाः आरोपे च गृहीता अस्ति। सा 'Travel with Joe' इति यूट्यूब-चैनेल् चालयति तथा च पाकिस्तान-यात्रायाः समये पाकिस्तानस्य गुप्तचर-संस्थायाः ISI इत्यस्या: एजेण्ट्-जनानाम् सम्पर्कं प्राप्तवती। अस्मिन् प्रकरणे अद्यावधि षट् जनाः गृहीताः, ये हरियाणा-पञ्जाब-राज्ययो: विभिन्नेभ्यः भागेभ्यः सन्ति।
प्राप्तसूचनानुसारं ज्योतिमल्होत्रा २०२३ तमे वर्षे पाकिस्तानदेशं गता। सा आयोगस्य माध्यमेन अनुमतिं प्राप्य एतां यात्रां कृतवती। अस्मिन् काले ज्योतिः पाकिस्तान-उच्चायोगस्य कर्मचारिणा एहसान-उर-रहीम उर्फ दानिश इत्यनेन सह मिलितवती। तस्य माध्यमेन ज्योतिः पाकिस्तानस्य गुप्तचरसंस्थायाः अन्यैः सदस्यै: सह परिचयं प्राप्तवती। यस्मिन् अली अहसानः शाकिर् उर्फ राणा शाहबाजः इत्यादय: सन्ति।स्वस्य दूरभाषे 'जट्टरन्धवा' इति नाम्ना तस्य नाम सा रक्षितवती आसीत्।