Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

हरियाणाराज्यस्य पलवलनगरे छात्रैः परिपूर्णे विद्यालययाने सहसा अग्नि: प्रज्वलितः।  अन्तः उपविष्टाः जनाः तत्क्षणमेव सर्वान् छात्रान् सुरक्षिततया बहिः नीतवन्तः। किञ्चित्कालात् एव बसयानं वह्निग्रस्तं जातम्। बसयाने स्थापिता: सर्वेषां बालकानां विद्यालयस्यूताः भस्मीभूता:।

सूचनानुसारं घटनेयं मङ्गलवासरे प्रातःकाले पुरातनजीटीमार्गे नगरस्य पुलिसस्थानकस्य समीपे अभवत्। बसयानं परितः विद्यमाना: जनाः तत्क्षणमेव बसयानं प्रति धावित्वा अन्तः उपविष्टान् बालकान् बहिः निष्कासितवन्तः। तत्क्षणमेव अग्निः वर्धमानः आसीत्, समीपस्थानां आपणानां फलकानि अपि नष्टानि।

बसयाने स्थापिता: बालकानां विद्यालयस्यूताः दग्धा:।

तत्क्षणमेव अग्निशामकदलस्य कृते एतस्या: घटनायाः सूचना दत्ता। प्रायः अर्धघण्टायाः प्रयासानन्तरं अग्निशामकदलस्य वाहनद्वयेन अग्निः नियन्त्रितः। विद्यालयाने प्रज्वलितेन अग्निना बालकानां हानिः न अभवत्, परन्तु तेषां स्यूताः भस्मीभूता:। प्राप्तविवरणानुसारं यानं विद्यालयस्य नासीत्। मातापितरः भाटकेन स्वीकृतवन्तः।

अद्यतनवार्ता

भारतम्

विश्वम्