Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अमेरिकादेशे वातावरणं निरन्तरं विनाशं जनयति। गतदिनद्वये अमेरिकादेशस्य अलाबामा-जॉर्जिया-इत्यादिराज्येषु टार्नोडो इत्यनेन प्रचण्डचक्रवातेन महाविनाश: अभवत् । प्रचण्डवातेन ९ जनाः मृताः सन्ति । अद्यापि बहवः जनाः अप्राप्याः सन्ति। आपत्कालीनदलद्वारा भवनावशेषाणाम् अधस्तात् जनानां निष्कासनं क्रियते। काष्ठनिर्मितानि नैकानि गृहाणि नष्टानि सन्ति। वृक्षाः, विद्युत्स्तम्भाः, वाहनानि च उड्डीय गृहेषु पतितानि। अलबामा-राज्यस्य राज्यपालः के.इवेयः अवदत् - प्रचण्डचक्रवातः अतीव भयानकः आसीत् । दूरदर्शने अपि एतादृश: विनाश: मया कदापि न दृष्ट: इति। अस्य वेगः २१८ कि.मी. प्रति घण्टा आसीत्। (प्रतीकात्मकं चित्रम्)

अद्यतनवार्ता

भारतम्

विश्वम्