Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

विज्ञानं वा ज्योतिषशास्त्रं वा, उभौ अपि सूर्यसहितानाम् नवग्रहाणां जीवने विस्तृतप्रभावं स्वीकुरुतः। नवग्रहाणां एकत्र दर्शनं तदपि तेषां पत्नीभिः सह, तर्हि ग्रहोपसाकानां कृते एषा शुभवार्ता इति। मध्यप्रदेशस्य बृहत्तमं नवग्रहमन्दिरं ग्वालियरमण्डलस्य डबरानगरे निर्माणाधीनम् अस्ति। कार्यमिदं ९० प्रतिशतं सम्पन्नम् अस्ति । विज्ञानस्य ज्योतिषस्य च मतानि मनसि कृत्वा अस्य मन्दिरस्य परिकल्पना कृता अस्ति ।

डबरा-नगरस्य पश्चिमदिशि यत्र पूर्वं शर्करा-उत्पादनकेन्द्राणि आसन् तत्र १२ एकर् परिमितस्थाने नवग्रहमन्दिरस्य निर्माणं क्रियते । एदं मध्यप्रदेशस्य भव्यतमं नवग्रहमन्दिरं भविष्यति इति मन्दिरन्यासस्य प्रतिपादनम् अस्ति

मन्दिरस्य निर्माणे द्रविड-फारसी-मिश्र-शैलीनाम् उपयोगः कृतः अस्ति। सम्पूर्णं मन्दिरं वृत्तरूपेण निर्मितम् अस्ति । अत्र वास्तुविज्ञानयोः द्वयोः अपि पालनं भवति, यतः वास्तुशास्त्रानुसारं गोलाकारवस्तूनाम् उपरि दुष्टप्रभावः न भवति अप् च विज्ञानस्य अनुसारं तु ग्रहाः वृत्तकक्षासु परिभ्रमन्ति।

मन्दिरस्य समीपे एकः विशालः तडागः निर्मितः अस्ति, यस्मिन् मन्दिरस्य प्रदक्षिणामार्गे प्रवहितं जलं तडागं प्रति प्रत्यागमिष्यति, प्रदक्षिणाप्रक्रिया च निरन्तरं भविष्यति। एतस्य पृष्ठतः तर्कः अपि ज्योतिषशास्त्रात् निष्पन्नः यतः सूर्येश्वरस्य पृथिव्यां उपविष्टे सति जलं तस्य कान्तिं नियन्त्रयितुम् आवश्यकं भवति । 

अस्य मन्दिरस्य निर्माणं भगवान्-परशुराम-लोकन्यासेन २०१२ तमे वर्षे आरब्धम्। वास्तुकारः अभियन्ता च अनिलशर्मा अवदत् यत् अधुना मन्दिरे स्थापनीयाभिः मूर्तिभिः सह तडागस्य अन्य-सौन्दर्यीकरणकार्यं च अन्तिमस्तरे अस्ति। मन्दिरभवनस्य त्रीणि तलानि सन्ति। अस्य मन्दिरस्य संरचना १०८ स्तम्भेषु अस्ति। १०८ ॐ कार सर्वेषां नवमन्दिराणां संगमरवरभित्तिषु उत्कीर्णाः सन्ति । प्रथमतलं सत्संगस्य धार्मिककार्यक्रमस्य च कृते, सज्जीकृतम् अस्ति। एतदतिरिच्य १५० निवासकक्ष्याः, सभागारः, पुस्तकालयः, व्यायामशाला, भक्तानां कृते पाकशाला, ९ सहस्रचतुष्पादपरिमितं नक्षत्रवनं, प्रत्येकं वृक्षस्य वृत्ताकारप्रदक्षिणाव्यवस्था, मन्दिरे एकः उत्सः, मन्दिरस्य पुरतः शिवस्य प्रतिमा, मन्दिरस्य ३०० स्तम्भेषु हिन्दुधर्मस्य सर्वेषां देवदेवतानां चतुःषष्टिः योगिनीनां, सप्तर्षिणां च प्रतिमाः अन्यैः ऋषिभिः सह सन्ति। मन्दिरस्यैव आकारेण सरोवरः अस्ति। विहारस्य सौन्दर्यं द्रष्टुं वातायनानि निर्मितानि सन्ति। कृत्रिमजलप्रपातः च निर्मितः अस्ति ।

ग्रहा: पत्नयः च 

(1) सूर्य: - संध्या, छाया देवी

(2) चन्द्र: -रोहिणीदेवी

(३) मङ्गलः -शक्तिदेवी

(4) बुध: -इलादेवी

(5) बृहस्पति: -तारदेवी

(6) शुक्र: -सुकीर्ति-उजस्वतीदेवी

(7) शनि: -निलादेवी

(8) राहु: -सिंही देवी

(9) केतु: -चित्रलेखा देवी

अद्यतनवार्ता

भारतम्

विश्वम्