Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

I.N.D.I.A सङ्घटनस्य निर्माणस्य अनन्तरं इतोऽपि दलेषु एकसुत्रता नास्ति। सर्वेऽपि दला: स्वस्य स्वार्थपूर्तये आसनविभाजने स्वाधिकारं प्रकटयन्त: सन्ति। अखिलेश: ममता इत्यादय: पूर्वमपि एतस्मिन् विषये स्वाधिकारं प्रदर्शितवन्त:। अधुना बिहारे भा.क.पा त्रयाणां आसनानां विषये एकपक्षीयं घोषणां कृतवती। भा.क.पा महासचिवः डी राजा सोमवासरे पटनानगरे तेजस्वी यादवं नीतीशकुमारं च मिलितवान् आसीत्। आसनविषये वार्ता अन्तिमरूपेण न कृता इति कथ्यते। तदनन्तरं भाकपा आसनसम्बद्धं एकपक्षीयं घोषणां कृतवती ।

अद्यतनवार्ता

भारतम्

विश्वम्