Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

कोलकाताया: इडनगार्डन क्रीडाङ्गणे भारत-दक्षिण-आफ्रिकादेशयो: मध्ये जाते विश्वचषकस्पर्धाया: अद्यतने द्वन्द्वे भारतेन ऐतिहासिक: विजय: प्राप्त:। भारतेन दक्षिण-आफ्रिकादेशाय जेतुं ३५७ धावनाङ्कानां लक्ष्यं दत्तमासीत् परन्तु तेषां सर्वेऽपि क्रीडका: आहत्य केवलं ८३ धावनाङ्कान् कृत्वा प्रतिनिवृत्ता:। अयं भारतीयदलस्य सततं अष्टम: विजय: अस्ति। अस्मिन् विजये विराटेन शतकं प्राप्तम्। तथैव रवीन्द्रेण पञ्च क्रीडका: प्रतिनिवृता: कृता:।

अद्यतनवार्ता

भारतम्

विश्वम्