Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

नवदिनानि यावत् वाराणसीनगरे जलस्तरः पञ्चमीटर्-पर्यन्तं निरन्तरं वर्धितः। अधुना बुधवासरात् आरभ्य गङ्गायाः जलस्तरः प्रतिघण्टां सेन्टिमीटर्-द्वयं यावत् अधः आगच्छन् अस्ति। तेन सह वरुणा-अस्सि-विपरीत-प्रवाहस्य वेगः न्यूनीभूत:, परन्तु अद्यापि जनानां क्लेश: न्यून: न जात:। बाबाविश्वनाथमन्दिरस्य द्वारतः १२ सोपानानि अधः गङ्गानद्याः जलम् अस्ति। ललिताघाटः भित्तिः च सम्पूर्णतया जलमग्नौ स्त:। नमो घाट: बुधवासरे तृतीयदिने अपि पीहित: अस्ति। कोऽपि पर्यटकः भक्तः वा आगन्तुं गन्तुं च न अर्हति। 

अद्यतनवार्ता

भारतम्

विश्वम्