केन्यादेशस्य मारेरेनी, मिडा किक् च इत्यत्र युवानः महिलाः च सक्रियरूपेण मेङ्गरोव शाखानां संज्ञानं कुर्वन्ति, तटीयक्षेत्रे पर्यावरणपरिवर्तनं च कुर्वन्ति। एतदर्थं तेभ्यः 'सी.ओ.बी.ए.सी.’ इति स्वैच्छिकसंस्थया सर्वविधं समर्थनं प्रदत्तं भवति। एकस्मिन् काले एतेषु खातेषु एतादृशं वनं प्रफुल्लितम् आसीत्, परन्तु इन्धनार्थं काष्ठस्य अविवेकपूर्णछेदनात् तत् विलुप्तम् अभवत् । परन्तु अधुना युवकाः महिलाः च तत् वनं पुनः हरितं कर्तुं अभियानं प्रारब्धवन्तः, तस्य माध्यमेन पर्यावरणस्य उन्नयनं च कुर्वन्ति। एते वृक्षा: केवलं लवणजले एव प्रफुल्लिताः भवन्ति । तेषां फलानां भोजने प्रयोग: अपि भवति। तदतिरिक्तं अधुना इदं क्षेत्रं जलेन (समुद्रजलेन) पूरितम् अस्ति, मत्स्याः अपि बहुमात्रायां दृश्यन्ते यत् तेषां कृते महत्त्वपूर्णं खाद्यपदार्थम् अपि अस्ति।