पहलगाम-आक्रमणम् एप्रिल-मासस्य २२ दिनाङ्के अभवत्, तदनन्तरमेव भारतेन पाकिस्तानेन सह सिन्धुजलसन्धिः स्थगिता, तदनन्तरं पाकिस्तानेन भारतीयविमानानाम् कृते स्वस्य वायुक्षेत्रनिषेध: उद्घोषित:। परन्तु पाकिस्तानदेशः एतं निर्णयं स्वीकृत्य स्वस्य पादे एव प्रहारं कृतवान् अस्ति यतः न केवलं भारतस्य अपितु पाकिस्तानस्य एव महती आर्थिकहानिः अभवत् । अस्मिन् काले प्रतिदिनं प्रायः १०० तः १५० यावत् भारतीयविमानानाम् आवागमनम् अपि प्रभावितम् इति सूचनाः सन्ति। एतेन पाकिस्तानस्य ४१० कोटिरूप्यकाणां हानि: जायते।