Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

पाकिस्तानस्य सेनाप्रमुखः मुनीरः ह्य: अमेरिकाभूमौ परमाणुप्रहारेण भारतं भर्त्सयमान: अवदत् यत् यदि वयं नष्टा: चेत् अस्माभिः सह विश्वार्धं नष्टं भविष्यति। भारतस्य सिन्धुजलसन्धे: निरस्तीकरणस्य निर्णयस्य कारणात् पाकिस्ताने २५ कोटिजनाः दुर्भिक्षसंघर्षं कुर्वन्त: सन्ति। भारतं सिन्धुनद्यां हृदनिर्माणस्य योजनां कुर्वन् अस्ति । वयं प्रतीक्षामहे। यदि ते जलबन्धं निर्मास्यति तर्हि वयं १० क्षेपणास्त्राक्रमणानि कृत्वा तस्य नाशं करिष्यामः। अस्माकं क्षेपणास्त्रस्य अभावः नास्ति। असीममुनीरस्य भारतविरोधिवक्तव्यं प्रति देशस्य विदेशमन्त्रालयेन दृढप्रतिक्रिया दत्ता। विदेशमन्त्रालयेन उक्तं यत् भवान् तृतीयदेशस्य भूमितः एतादृशीं टिप्पणीं करोति इति अत्यन्तं दुःखदम्। भारतेन पूर्वमेव स्पष्टं कृतं यत् परमाणुशस्त्राणां भर्त्सनेन वयं व्याकुला: न भविष्याम:। अस्माकं राष्ट्रस्य सुरक्षां हितं च विचार्य वयं निरन्तरं पदानि स्वीकरिष्याम: इति।

अद्यतनवार्ता

भारतम्

विश्वम्