पश्चिमबङ्गदेशे मतदातृसूचिसंशोधने अनियमिततायाः कारणात् निर्वाचनायोगस्य राज्यसर्वकारस्य च मध्ये संघर्ष: वर्धितः अस्ति। अधिकारिणां निलम्बनस्य अस्वीकारस्य विषये आयोगेन मुख्यसचिवं मनोजपन्तं अगस्तमासस्य १३ दिनाङ्कपर्यन्तं दिल्लीनगरं आहूतम्। आगामिवर्षे पश्चिमबङ्गदेशे विधानसभानिर्वाचनं भविष्यति। एतदर्थं सम्पूर्णे राज्ये राजनीतिषु राजनैतिकतापः वर्धमानः अस्ति। परन्तु अस्य तापस्य प्रमुखं कारणं निर्वाचनायोगस्य बङ्गालसर्वकारस्य च मध्ये प्रचलन् संघर्ष: अपि अस्ति। एषः संघर्ष: तदा वर्धितः यदा मङ्गलवासरे निर्वाचनायोगेन राज्यस्य मुख्यसचिव: मनोजपन्त: दिल्लीनगरं पर्ति आहूत:। मतदातृसूचिसंशोधने कथितानां अनियमितानां आरोपितानां अधिकारिणां निष्कासनस्य अस्वीकरणप्रकरणे स्पष्टीकरणं दातुं स: आहूत: अस्ति।