यदि सम्प्रति सिनेमागृहेषु कस्यापि चलच्चित्रस्य प्रचण्डप्रतिसादः प्राप्यते तर्हि तत् पौराणिक-एनिमेटेड्-चलच्चित्रं महावतारनरसिंहः एव । मन्दप्रारम्भस्य अनन्तरं एतस्य चलच्चित्रस्य बोक्स-आफिस-मध्ये दृढं पुनरागमनं जातमस्ति। भारतात् विदेशपर्यन्तं अस्य चलच्चित्रस्य ब्लॉकबस्टर-सङ्ग्रहस्य विषये चर्चा क्रियते। सैकनिल्क इत्यस्य प्रतिवेदनानुसारं प्रदर्शनस्य १७ दिनाङ्के रविवासरस्य अवकाशस्य पूर्णं लाभं गृहीत्वा महावतारनरसिंहः स्थानिकबोक्स आफिस-मध्ये २२.७५ कोटिरूप्यकाणां ब्लॉकबस्टर-राशिं अर्जितवत्, यत् कस्यापि एनिमेटेड-चलच्चित्रस्य कृते सर्वाधिकम् अस्ति अनेन सह अधुना विश्वे महावतारनरसिंहस्य कुलसङ्ग्रहः २०० कोटिरूप्यकाणि जात: या महती उपलब्धिः इति मन्यते।