Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

विश्वचषक-क्रिकेटस्पर्धाया: अद्यतनीयायां स्पर्धायां भारतेन पाकिस्तान-विरुद्धं ७ स्तोभै: विजय: प्राप्त:। पाकिस्तानदलः ४२.५ पर्यासे १९१ धावनाङ्कान् प्राप्तवान्। तस्य प्रतिक्रियारूपेण भारतीयदलेन ३०.३ पर्यासेषु १९२ धावनाङ्कान् कृत्वा भव्य: विजय: प्राप्त:। अनेन सह भारतेन अस्य वर्षस्य स्पर्धायां सततं तृतीयवारं विजय: प्राप्त: अस्ति। रोहितशर्मा श्रेयस अय्यर् च अर्धशतकं प्राप्तवन्तौ। तथैव सर्वेऽपि गेन्दका: अत्युत्तमं प्रदर्शनं कृतवन्त:।

अद्यतनवार्ता

भारतम्

विश्वम्