Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

आईसीसी-विंशति-प्रतिविंशति-क्रिकेट्-चषकस्पर्धायां अद्य भारत-झिम्बाग्वेदलयोर्मध्ये योजितायां स्पर्धायां भारतेन एकसप्ततिः धावनाङ्कैः विजयः प्राप्तः। भारतेन आरम्भे 186 धावनाङ्काः अर्जिताः, तस्य प्रत्युत्तरे  झिम्बाग्वेदल: केवलं 115 धावनाङ्कान् कर्तुं समर्थः जातः । एतेन विजयेन भारतं उपान्त्यचक्रे प्रविष्टः अपि च गुरुवासरे दशमे दिनाङ्के इंग्लेन्डदेशेन सह तस्य स्पर्धा भविष्यति। स्पर्धान्ते कतिपय विक्रमाः अपि स्थापिताः भारतीयैः क्रीडालुभिः। टी20-अन्ताराष्ट्रियस्पर्धायां सर्वाधिकं दशवारं भुवनेश्वरकुमारेण मेईडन्-ओवर–धावनाङ्कविहीनपर्यासस्य विक्रमः स्थापितः, सूर्यकुमारेण सर्वाधिकं एकसहस्र-घावनाङ्कानां विक्रमः स्थापितः।

अद्यतनवार्ता

भारतम्

विश्वम्