Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारतीय-अन्तरिक्षसंशोधनसंस्था अर्थात् इसरो इत्यनेन शुक्रवासरे अपराह्णे २.३५ वादने चन्द्रयान-३ अभियानं प्रारब्धम्। आन्ध्रप्रदेशस्य श्रीहरिकोटानगरस्य सतीशधवन-अन्तरिक्षकेन्द्रात् LVM3-M4 प्रक्षेपकद्वारा चन्द्रयानं अन्तरिक्षे प्रेषितम्।

चन्द्रायनं १६ निमेषेभ्यः अनन्तरं पृथिव्याः कक्षां सफलतया प्राप्नोत्। इसरो-प्रमुखः एस सोमनाथः प्रक्षेपणानन्तरं उक्तवान् यत् अस्य वाहनस्य चन्द्रं प्रति यात्रा आरब्धा अस्ति। यदि सर्वं योजनानुसारं गच्छति तर्हि अगस्तमासस्य २३ दिनाङ्के सायं ५.४७ वादने चन्द्रस्य दक्षिणध्रुवे अवतरिष्यति। तत्र एतत् यानं १४ दिवसान् यावत् पृथिव्याः आगच्छन्तं विकिरणं, चन्द्रपृष्ठे भूकम्पाः, चन्द्रस्य मृत्तिका इत्यादि विषयाणामुपरि प्रयोगान् करिष्यति। यदि अवरोहणे सफलता भवति अर्थात् अभियानं सफलं भवति तर्हि अमेरिका-रूस-चीन-देशानाम् अनन्तरं भारतं चतुर्थः देशः भविष्यति।

अद्यतनवार्ता

भारतम्

विश्वम्