Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

इटलीदेशस्य सिसिलीतटस्य समीपे २००० किलोग्रामपरिमितं कोकेन् इति मादकद्रव्यं प्लवमानं दृष्टम्। प्राप्तविवरणानुसारं ७० जलरोधकस्यूते भूमध्यसागरे केनापि क्षिप्तम् आसीत्। इटालियनपुलिदलस्य अनुसारं सीमाशुल्कविभागेन अद्यपर्यन्तं गृहीतेषु द्रव्येषु बृहत्तमः सञ्चयः एषः एव अस्ति ।

सीमाशुल्काधिकारिणां मतेन कोकेन इत्यस्य पुटकानि मत्स्यजाले वेष्टितानि आसन्। तस्मिन् प्रकाशमानं अनुसरणयन्त्रमपि संलग्नम् आसीत्। अधिकारिणां मतेन तत् गोपनार्थं मालवाहकपोतात् क्षिप्तम् आसीत्। तस्कराः आशां कृतवन्तः यत् ते पश्चात् तत् अन्विष्य निर्दिष्टे स्थाने आपूर्तिं करिष्यन्ति इति। एतस्य कोकेन्-द्रव्यस्य मूल्यं त्रिसहस्रकोटिरूप्यकेभ्यः अपि अधिकम् अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्