Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

झारखण्डस्य पलामूजनपदस्य पांकी इति स्थाने शिवभक्ताः महाशिवरात्रि-उत्सवस्याचरणं कर्तुं न शक्नुवन्ति कारणं यत् तत्र प्रशासनद्वरा शिवयात्रायाः अनुमतिः न प्राप्ता। एतत्पूर्वं तोरणद्वारनिर्माणकाले इस्लामिक-उग्रवादिभिः हिंसाचरणं कृतम् आसीत्। हिंसायाः अनन्तरं अस्मिन् क्षेत्रे धारा १४४ प्रवर्तिता अस्ति। धारा १४४ इत्यस्य उद्धरणं दत्त्वा प्रशासनेन हिन्दुभ्यः शिवशोभां बहिः मार्गेषु कर्तुं अनुमतिः न दत्ता।

पलामू-जिलाधिकारी ए डोड्डे, एसपी चंदन सिन्हा, आईपीएस अधिकारी च मस्जिदक्षेत्रे शहीदभगतसिंहचतुष्पथस्य निरीक्षणं कृतवन्तः। तदनन्तरं शिवशोभायात्राया: प्रतिबन्धं कर्तुं अधिकारिभिः निर्णयः कृतः। अधिकारिणः हिन्दुभ्यः अवदन् यत् शिवरात्रिविषये भावुकतायाः आवश्यकता नास्ति! 

अद्यतनवार्ता

भारतम्

विश्वम्