वित्तीयसेवासंस्थया जे.पी.मोर्गन इत्यनया भारतस्य आर्थिकवृद्धि: योग्यमार्गे अस्ति इति प्रतिपादितम्। जे.पी.मोर्गन इत्यनेन उक्तं यत् भारतस्य अर्थव्यवस्था व्यापारयुद्धस्य समस्यायामपि सुरक्षिता अस्ति। संस्थायाः प्रतिवेदनानुसारं भारतं आगामिषु काले सुरक्षिता अर्थव्यवस्थारूपेण उद्भविष्यति, तीव्रगत्या च अग्रे गमिष्यति। सर्वेक्षणे समाविष्टेषु देशेषु भारतस्य सकलराष्ट्रीयउत्पादः सर्वाधिकः इति अनुमानितम् अस्ति। उदीयमानविपणीं प्रति सकारात्मकभावना दृष्टा अस्ति। विश्वे द्वितीयचरणस्य व्यापारयुद्धस्य आरम्भः भवितुम् अर्हति इति। एतस्मिन् परिस्थितौ अपि भारतं सुरक्षितम् अस्ति।