Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

सोमवासरे भारतीयजनतादलेन सोनियागान्धिविरुद्धं निर्वाचनायोगे आक्षेपः कृत:। वस्तुतः मे-मासस्य ६ दिनाङ्के कर्नाटकस्य हुबली-नगरे सोनियागान्धी सभाम् अकरोत्। सभायाः समाप्तेः अनन्तरं काङ्ग्रेसदलेन स्वस्य सोशलमीडिया हैण्डल् इत्यत्र ट्वीट् कृतम्  - कर्णाटकस्य ६.५ कोटिजनानाम् कृते काङ्ग्रेससंसदीयदलस्य अध्यक्षा सोनिया गान्धी इत्यस्याः सशक्तः सन्देशः। कर्णाटकस्य विश्वसनीयतां, सार्वभौमत्वं, अखण्डतां च त्रोटयितुं कस्मैश्चिदपि अनुमतिं न दास्यति।

विषयेऽस्मिन् दलस्य एकेन शिष्टमण्डलेन निर्वाचनायोगेन सह मेलनं कृत्वा सोनियाविरुद्धं कार्यवाहीं कर्तुं निवेदितम्। दलनेता तरुणचुग: अवदत् – सार्वभौमं राष्ट्रम् अस्ति, राज्यं न। सोनियागान्धी सार्वभौमत्वस्य विषये वदन्ती देशस्य संविधानस्य अपमानं कृतवती अस्ति। सोनियागान्धी सार्वजनिकरूपेण क्षमायाचनां कुर्यात्। इति।

अद्यतनवार्ता

भारतम्

विश्वम्