Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारते शिक्षाक्षेत्रे नूतनः अध्यायः आरब्धः अस्ति। केरलं देशस्य प्रथमं राज्यं जातम् यत्र कृत्रिमबुद्धि-आधारिता  शिक्षिका बालकानां शिक्षणस्य कार्यभारं स्वीकरिष्यति। एतदर्थं मानवरूपस्य रोबोट् इत्यस्य उपयोगः क्रियते। 'आइरिस्' इति नाम्ना शाटिका-वस्त्रधारिणी एआइ-आधारिता मानवरूपा शिक्षिका तिरुवनन्तपुरे के.टी.सी.टी. उच्चमाध्यमिकविद्यालये अस्ति। तस्याः स्वरः स्त्रीलिंगः अस्ति, यथार्थशिक्षकस्य अनेकानि लक्षणानि च सन्ति। आइरिस् भाषात्रयं वक्तुं शक्नोति। छात्राणां जटिलप्रश्नानां उत्तराणि अपि दातुं शक्नोति। अयं तु केवलम् आरम्भ: अस्ति। यक्षप्रश्न: अस्ति यत् किं एतादृशं संशोधनं विज्ञानस्य आविष्करणं वा शिक्षणक्षेत्रे उचितम् ? किं भविष्ये सर्वेषां शिक्षकाणां गुरूणां स्थानं यन्त्रमानवा: स्वीकर्तुं शक्नुवन्ति ? को लाभ: का च हानि:। चिन्तनीय: विषय:....

अद्यतनवार्ता

भारतम्

विश्वम्