Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारतीयजनतापक्षस्य १९५ लोकसभाप्रत्याशिनां सूच्यां बहवः सन्देशाः निगूढाः सन्ति, आगामिसूच्यां कस्य चयनं भविष्यति इति संकेतं ददाति। अस्यां सूच्यां बृहत्तमः सन्देशः केन्द्रीयमन्त्रिणां कृते अस्ति यत् यदि ते भविष्ये केन्द्रीयमन्त्रिमण्डले स्वस्थानं धारयितुम् इच्छन्ति तर्हि तै: सर्वै: जनादेश: प्राप्तव्य:। सम्भवतः अत एव दलस्य प्रथमसूचौ मोदीसर्वकारस्य ३४ मन्त्रिणः स्थापिताः।

प्रथमसूचौ दलेन २०१९ तमस्य वर्षस्य निर्वाचने यस्मिन् स्थाने पराजय: प्राप्त: तेषु आसनेषु अधिकं ध्यानं दत्तमस्ति। गतलोकसभानिर्वाचने दलेन प्राप्तेषु केषुचित् आसनेषु प्रत्याशिनां परिवर्तनं कृतमस्ति। 

प्रथमसूचौ पूर्वमुख्यमन्त्रित्रयं पूर्वमुख्यमन्त्रिणां पुत्रपुत्रौ चेत्येतान् स्थानं दत्त्वा स्पष्ट: सन्देश: दत्त: यत् दल: परिश्रमिणः लोकप्रियनेतॄन् न विस्मति। 

अद्यतनवार्ता

भारतम्

विश्वम्