Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

शिवपार्वत्योः विवाहोत्सवः शिवरात्रिः देशे सर्वत्र आचर्यते । काशी-उज्जैन-हरिद्वार-ओंकारेश्वर-सोमनाथ-सहितेषु सर्वेषु ज्योतिर्लिङ्गेषु तथा लघु-बृहत्-शिवमन्दिरेषु भक्तानां आप्लावः दृश्यते। उत्तरप्रदेशस्य वाराणसीनगरस्य विश्वनाथमन्दिरस्य महादेवस्य दर्शनं कर्तुं आरात्रौ भक्ताः पङ्क्तौ स्थितवन्त:। वाराणसी-आरक्षकदलस्य विवरणानुसारं प्रातः १० वादनपर्यन्तं ३ लक्षं भक्ताः समागताः सन्ति। तथैव उज्जयिन्यां महाकालस्य स्थितिः अपि। अत्र अपि त्रिलक्षाधिकाः भक्ताः प्राप्ताः।

अपरपक्षे गुजरातराज्यस्य धरमपुरे ३१ लक्षरुद्राक्षेभ्यः ३१.५ पादपरिमितं शिवलिंगं निर्मितम् । तत् द्रष्टुं बहुसङ्ख्यकाः भक्ताः आगतवन्तः । झारखण्डस्य देवघरे बाबा बैद्यनाथस्य दर्शनार्थं २ कि.मी.दीर्घा भक्तानां पङ्क्तिः अस्ति। जनसमूहं दृष्ट्वा प्रातः ३ वादने मन्दिरस्य द्वाराणि उद्घाटितानि आसन्। 

अधुनापर्यन्तं अयोध्यायां १५.७६ लक्षं दीपप्रज्वालनस्य विक्रमः अस्ति। एतं विक्रमं त्रोटयितुं क्षिप्रानद्या: तटे अद्य सायंकाले शिवज्योति-अर्पण-कार्यक्रमः भविष्यति। अस्य विश्वविक्रमस्य कृते २१ लक्षं दीपकाः प्रज्वालनीयाः सन्ति। तदर्थं ५२ सहस्रलीटरतैलं, २५ लक्षं तुलिकाः, ६०० किलो कर्पूरं, ४ सहस्रं अग्निशलाकापेटिकाः च आज्ञापिताः सन्ति। कार्यक्रमस्यास्य विशेषता अस्ति यत् सम्पूर्णे कार्यक्रमे शून्यं व्ययः भविष्यति।

अद्यतनवार्ता

भारतम्

विश्वम्