Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

संसदस्य मानसूनसत्रे मणिपुरहिंसायाः वर्चस्वम् आसीत्। प्रधानमन्त्री नरेन्द्रमोदी १० अगस्तदिनाङ्के अविश्वासप्रस्तावस्य उत्तरे २ घण्टा १२ मिनिट् यावत् मणिपुरस्य उल्लेखं कृतवान् परन्तु तत्पूर्वं विपक्षजना: सभां त्यक्तवन्त:। परदिने राहुलगान्धी पत्रकारसम्मेलने उक्तवान् यत् सेना मणिपुरे प्रचलन्त्या: हिंसायाः समाप्ति: दिनद्वयेन कर्तुं शक्नोति। तदन्तरं मणिपुरे भाजपायाः सहयोगिन: राष्ट्रियजनपक्षस्य एनपीपी-नेता रामेश्वरसिंहः अवदत् यत् राज्ये सर्जिकल स्ट्राइक करणीयम्। तस्मिन् एव काले पूर्वमन्त्री रविशङ्करप्रसादः अवदत् यत् किं राहुलगान्धी इच्छति यत् सशस्त्रसेना तत्रत्यानां नागरिकानां उपरि गोलिकाप्रहारं कुर्यात्! असमस्य मुख्यमन्त्र हिमन्त विश्व सरमा अवदत् यत् भारतीयसेना किमपि समाधातुं न शक्नोति। ते किञ्चित्कालं यावत् एव शान्तिं आनेतुं शक्नुवन्ति, एतेन समस्यायाः समाधानं न भविष्यति। तत्र समाधानं हृदयात् आगमिष्यति न तु गोलिकाभ्यः। मणिपुरे शतदिनाधिकं हिंसा प्रचलति। राहुलः अवदत् यत् सेना द्वौ दिवसौ सर्वं समाधातुं शक्नोति। एतस्य कोऽर्थ: ? ते नागरिकेषु गोलीप्रहारं कुर्वन्तु? किम् एतदेव तस्य मतम्? कथं स: वक्तुं शक्नोति?

अद्यतनवार्ता

भारतम्

विश्वम्