Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

चन्द्रयानस्य चन्द्रावतरणस्य ११ दिवसाः व्यतीताः। अधुना सूर्यः चन्द्रे अस्तं गत: अस्ति, ३ दिवसेभ्यः अनन्तरं रात्रौ भविष्यति। इसरो इत्यनेन शनिवासरे उक्तं यत् प्रज्ञानस्य कार्यं सम्पन्नम् अस्ति। इदानीं सुरक्षितरूपेण स्थगितं कृत्वा शयनदशायां स्थापितमस्ति। चन्द्रस्य एकः दिवसः अर्थात् पृथिव्या: १४ दिवसा: भवन्ति। रात्रौ चन्द्रस्य दक्षिणध्रुवे तापमानं -२३८ डिग्री सेल्सियसपर्यन्तं न्यूनीभवति। चन्द्रयान-३ इत्यस्य विक्रम-प्रज्ञान-लैण्डर्-इत्येतयोः सौर-पटलाः सन्ति । एतयोः अवतरकयोः परिकल्पना इत्थं कृता येन ते केवलं चन्द्रदिने एव कार्यं कर्तुं शक्नुत:।

चन्द्रयान-३ अभियानस्य वैज्ञानिकस्य एम श्रीकान्तस्य मतेन विक्रमस्य प्रज्ञानस्य च अधुनापर्यन्तं प्रदर्शनेन कथयितुं शक्यते यत् चन्द्ररात्रे: समाप्ते: अनन्तरम् अपि विक्रम: प्रज्ञानं च पुनः कार्यं कर्तुं शक्नुयाताम्।

अद्यतनवार्ता

भारतम्

विश्वम्