Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

प्रधानमन्त्रिणा नरेन्द्रमोदिना मङ्गलवासरे सिड्नीनगरस्य कुडोस्बैङ्क एरिना इत्यत्र भारतीयमूलस्य २०,००० तः अधिका: जना: सम्बोधिता:। एतस्मिन् समये पीएम मोदी उक्तवान् – भारतं लोकतन्त्रस्य जननी अस्ति। अस्माकं कृते सर्वं जगत् एकं कुटुम्बम् अस्ति। भारत-ऑस्ट्रेलिया-सम्बन्धः विश्वास-सम्मान-आधारितः अस्ति ।

पीएम मोदी उक्तवान्- मया २०१४ तमे वर्षे अन्तिमे भ्रमणकाले प्रतिज्ञा कृता आसीत् यत् आस्ट्रेलियादेशेन भारतीयस्य प्रधानमन्त्रिणः कृते पुनः ८ वर्षाणि प्रतीक्षा करणीया न भविष्यन्ति।

पूर्वं आस्ट्रेलियादेशस्य प्रधानमन्त्री अल्बानीजः मोदी इत्यस्य प्रशंसाम् अकरोत्, अवदत्- 'मोदी एव स्वामी “Boss” इति। अत्र आस्ट्रेलियादेशे प्रथमवारं प्रधानमन्त्रिणः एतादृशं भव्यं स्वागतं जातमस्ति। वयं द्वयोः देशयोः लोकतान्त्रिकमूल्यानाम् आधारेण सम्बन्धं अधिकं सुदृढं करिष्यामः।

पीएम मोदी भारत-ऑस्ट्रेलिया-सम्बन्धविषये उक्तवान् यत्, "एकः समयः आसीत् यदा अस्माकं सम्बन्धाः 3C (राष्ट्रमण्डल, क्रिकेट्, करी), 3D (लोकतन्त्र, प्रवासी, मैत्री) तथा 3E (ऊर्जा, अर्थव्यवस्था, शिक्षा) आधारिताः इति कथ्यन्ते स्म परन्तु अधुना एतेषां सम्बन्धानां आधारः परस्परविश्वासः, सम्मानः च अस्ति। हिन्दमहासागरः अस्मान् संयोजयति। अस्माकं उत्सवाः पृथक् पृथक् आचर्यन्ते चेदपि, परन्तु अद्यापि वयं दीपावली, बैसाखी इत्यादिभिः उत्सवैः योजिता: स्मः। हैरिस् पार्क् अनेकेषां कृते हरीशपार्कः भवति । सिड्नी-नगरस्य समीपे लखनऊ इति स्थानं अपि अस्ति । आस्ट्रेलियादेशस्य कश्मीर, मालाबार इत्यादीनां वीथिषु भारतस्य दर्शनं दृश्यते। भारते बलस्य, साधनस्य च अभावः नास्ति। भारते विश्वस्य बृहत्तमः युवप्रतिभानिर्माणशाला च अस्ति। यत्र यत्र भारतीयाः निवसन्ति तत्र तत्र मानवस्वभावः विद्यमानः तिष्ठति। भारतं प्रत्येकस्मिन् संकटे साहाय्यार्थं समाधानाय च सज्जः एव तिष्ठति। भारतं स्वहितं सर्वेषां हितेन सह सम्बद्धं पश्यति। भारतस्य आस्ट्रेलिया-देशस्य च सामरिकयोगः वर्धमान: अस्ति। शीघ्रमेव द्वयोः देशयोः व्यापारः द्विगुणितः भविष्यति।

अद्यतनवार्ता

भारतम्

विश्वम्