Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

प्रधानमन्त्री नरेन्द्रमोदी हिरोशिमानगरे प्रचलति G7-समागमे अतिथिरूपेण भागं गृहीतवान् अस्ति। जी-७ विश्वस्य सप्तविकसितानां समृद्धानां च देशानाम् एकः समूहः अस्ति । यस्मिन् कनाडा, फ्रान्स, जर्मनी, इटली, जापान, ब्रिटेन, अमेरिका च सन्ति। 

परमाणुप्रहारं प्राप्तवति हिरोशिमानगरे शिखरसम्मेलनात् शान्तिसन्देशः

जापानदेशस्य राजधानी टोक्योनगरस्य स्थाने प्रथमपरमाणुप्रहारस्य साक्षीभूते हिरोशिमानगरे एषा सभा आयोजिता अस्ति। १९४५ तमे वर्षे अगस्तमासस्य ६ दिनाङ्के अमेरिकादेशेन हिरोशिमा-नगरे परमाणुविस्फोटकः पातितः । अस्मिन् लक्षशः जनाः मारिताः। जापानस्य प्रधानमन्त्री फुमियो किशिदा अस्मिन् शिखरसम्मेलनात् परमाणुशस्त्ररहितस्य विश्वस्य आवश्यकतायाः सन्देशं दातुम् इच्छति।

प्रधानमन्त्रिणः विश्वनेतॄणां सह मेलनम्। 

एतस्मिन् समागमे अनेकदेशानां राष्ट्रप्रमुखैः सह पृथक् पृथक् मेलनम् अपि जातम्।  प्रधानमन्त्री नरेन्द्रमोदी अमेरिकादेशस्य राष्ट्रपतिः, ब्रिटेनस्य प्रधानमन्त्री ऋषिसुनाक्, युक्रेनदेशस्य राष्ट्रपतिः व्लादिमीर् जेलेन्स्की चैतान् मिलितवान् । एतेषां अतिरिक्तं मोदीः शिखरसम्मेलनस्य आतिथ्यं कुर्वन् जापानदेशस्य प्रधानमन्त्री फुमियो किशिदा, दक्षिणकोरियादेशस्य राष्ट्रपतिः यून् सुक् येओल्, जर्मनीदेशस्य चान्सलर ओलाफ् श्कोल्ज्, फ्रांसदेशस्य राष्ट्रपतिः इमैनुएल मैक्रोन् च  एतान् अपि मिलितवान्।

G7 राष्ट्रसमूहस्य चीनदेशाय प्रत्यादेशः - कस्यचित् वर्चस्वं स्वीकार्यं नास्ति।

विश्वस्य सप्तविकसितानां अर्थव्यवस्थानां जी-७ इति संस्था चीनदेशाय संयुक्तवक्तव्ये कठोरप्रत्यादेशः अयच्छत्। चीनदेशस्य नामकरणं विना विश्वस्य कस्यचित् एकस्य देशस्य आर्थिकप्रभुत्वस्य समाप्तिः एव संस्थाया: एकं लक्ष्यम् अस्ति। अस्मिन् वक्तव्ये जी-७-देशाः चीनदेशाय आह्वानं कृतवन्तः यत् चीनदेशः युक्रेन-देशेन सह युद्धस्य समाप्त्यर्थं रूस-देशं प्रेरयतु।

मोदिना शान्तिस्मारकस्य दर्शनं कृत्वा श्रद्धांजलि: समर्पिता। 

रविवासरे नरेन्द्रमोदी शान्तिस्मारकपार्कं गतवान्। अत्र सः शान्तिस्मारकसङ्ग्रहालयं गत्वा हिरोशिमादुर्घटनायां प्राणान् त्यक्तवद्भ्यः जनेभ्यः श्रद्धांजलिम् अयच्छत् । हिरोशिमा-नगरं परमाणु-आक्रमणस्य साक्षी आसीत्। १९४५ तमे वर्षे अगस्तमासस्य ६ दिनाङ्के अमेरिकादेशेन हिरोशिमा-नगरे परमाणुविस्फोटकः पातितः। अस्मिन् लक्षशः जनाः मारिताः।

मोदिनः आगामिप्रवास: पापुआ न्यू गिनीदेशे ऑस्ट्रेलियादेशे च।

प्रधानमन्त्री मोदी २२ दिनाङ्के पापुआ न्यूगिनीदेशं प्राप्य पैसेफिक-देशसमूहस्य नेतृभिः सह मेलनं करिष्यति।  २३ मे दिनाङ्के आस्ट्रेलियादेशं प्रति प्रस्थास्यति। अत्र सः भारतीयसमुदायस्य जनान् सम्बोधयिष्यति। मे २४ दिनाङ्के आस्ट्रेलियादेशस्य प्रधानमन्त्री एण्टोनी अल्बानेस् इत्यनेन सह मिलित्वा२५ दिनाङ्के प्रातःकाले दिल्लीनगरं प्रत्यागमिष्यति।

अद्यतनवार्ता

भारतम्

विश्वम्