Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

राष्ट्रियसेवकसङ्घस्य तृतीय: त्रिदिवसीय: राष्ट्रियसेवासङ्गम: राजस्थानस्य जयपुरे आरब्धः। संघप्रमुखः मोहनभागवतः संगमस्य उद्घाटनसमये अवदत् यत् मिशनरीसमाजस्य जनाः सम्पूर्णे विश्वे चिकित्सालयानाम्, विद्यालयानां च संचालनेन सह सेवाकार्यं कुर्वन्ति। यदा वयं देशं परिभ्रमन्तः सन्तः किं कुर्वन्ति इति दृष्टवन्तः तदा वयं ज्ञातवन्तः यत् साधुसमाजः अपि मिशनरी-अपेक्षया उत्तमं कार्यं करोति। स्वयंसेवकाः संघस्य आरम्भात् एव सेवां कुर्वन्ति। सर्वेषां सेवायाः मानसिकता वर्तते, केवलं जागरणं कर्तव्यम्। अद्यैव सेवाद्वारा समाजं स्वस्थं कर्तुं प्रयत्नशीलाः स्मः। ततः पूर्वं अस्माभिः स्वस्थैः भवितव्यम्। यदि अस्माकं समाजे कोऽपि पृष्ठतः अस्ति तर्हि अस्माकं कृते नोचितम्। सर्वान् समानान् स्वसदृशान् च मत्वा एव समाजः अग्रे गन्तुं शक्नोति। दुर्बलजनेभ्यः बलं दातव्यम् अस्ति।

अस्मिन् संगमे त्रिसहस्राधिकानां स्वैच्छिकसंस्थानां प्रतिनिधिभिः सह व्यापारिणः अजयपीरामलः, सुभाषचन्द्रः, विभिन्नव्यापारसमूहानां जनाः, अपि भागं गृहीतवन्तः । पिरामलः उद्घाटनसत्रे अवदत् यत् अद्य मम कृते विशेषः दिवसः यतः अहं भवतां सर्वेषां मध्ये अस्मि। स्वयंसेवकाः निःस्वार्थतया देशस्य कृते प्राणान् त्यक्तवन्तः। कोरोना-काले आरएसएस-कर्मचारिभिः महत् कार्यं कृतम् आसीत् ।

उमेशनाथः मोहनभागवतस्य पुरतः उक्तवान् – शंखध्वनेः अपेक्षया अजानध्वनिः अधिकः श्रूयते”

बालयोगी उमेशनाथ महाराजः भागवतस्य सम्मुखे उक्तवान् यत् प्राचीनकाले आक्रमणकारिणः देशम् आगत्य सर्वं नाशितवन्तः परन्तु देशस्य ऋषीणां त्यागेन तपसा च बहिर्जनाः पराजिताः अभवन्। अधुना अस्माकं दुर्भाग्यम् अस्ति यत् शङ्ख-घण्टा-मृदङ्गादिकं न दृश्यते। देशे शंखध्वनेः अपेक्षया अजानध्वनिः अधिकः श्रूयते। प्रातःकालात् आरभ्य सायंपर्यन्तं वयं ध्वनिविस्तारकयन्त्रैः पञ्चवारं अजानध्वनिं श्रूणुमः। एतेन अस्माकं सर्वं कार्यं बाधते। एतत् सर्वं किमर्थं जातम्  आक्रमणकारिभिः सह अस्मदीयाः एव प्रविष्टाः अपि च ते तादृशं वातवरणं निर्मितवन्तः।

अद्यतनवार्ता

भारतम्

विश्वम्