Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

मास्कोतः गोवानगरं प्रति गच्छता रूसीविमानसेवायाः AZUR इत्यस्य विमानयानेन सोमवासरे रात्रौ विस्फोटकस्य सूचना प्राप्ता। तदनन्तरं गुजरातराज्यस्य जामनगरे विमानस्य आपत्कालीनम् अवरोहणं कृतम् । तदनन्तरं सर्वे २३६ यात्रिकाः ८ चालकदलस्य सदस्याः च सुरक्षितरूपेण अवतारिताः । तदनन्तरं विस्फोटकनिष्कासनदलः, गुजरातपुलिसदलः विमानस्य अन्तः अन्वेषणं कृतवन्तौ । एनएसजीदलजनाः जामनगर-विमानस्थानकं प्राप्य विमानस्य परीक्षणं कृतवन्तः । रात्रौ प्रायः ६ घण्टाः यावत् विमानस्थानके अराजकता आसीत् । सर्वे सुरक्षिताः सन्ति। विमानयाने किमपि विस्फोटकं प्राप्तं नास्ति।

अद्यतनवार्ता

भारतम्

विश्वम्