Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

आपत्काले एव जनानां व्यवहारस्य परीक्षा भवति इति उक्तिः । कोरोनाविषाणुजनितापात्काले सर्वेऽपि चिकित्सक-आरक्षकादयः निष्ठया स्वकर्तव्यानि वहन्ति । कोरोना-योद्धारः समाजस्य एव अङ्गभूताः सन्ति । तेषामपि परिवारः भवति परन्तु कर्म एव धर्म इति मनसि निधाय एतस्मिन् आपत्तिकाले परिवारं पृष्ठे स्थापयित्वा स्वदायित्वं वहन्ति योद्धारः । तत्रापि महिलानां कार्यक्षमता तु अकल्पनीया एव । तादृशः एकः प्रसङ्गः अस्ति एएसाआई आरक्षिकायाः मितलबेन झाला इत्यस्याः । एतस्याः कार्यसमयः अस्ति प्रभाते अष्टवादनतः रात्रौ अष्टवादनपर्यन्तम् । तस्याः एकः सार्धवर्षीयः पुत्रः अपि अस्ति । यदा बालकः अधिकं रोदिति तदा पिता तं स्वीकृत्य मातरं दर्शयितुं गच्छति । विधातुः वक्रता यत् माता रुदतः पुत्रस्य स्पर्शमपि कर्तुं न शक्नोति कारणं यत् दायित्वसमये नैकानां सम्पर्के आगता माता सङ्क्रमणभयात् स्पर्शं कर्तुं न शक्नोति । दूरात् एव माता पुत्रं लालयित्वा अनुनयति । इत्थं दिने त्रिचतुर्वारं भवति । रात्रौ गृहमागत्य स्नानादिकं समाप्य एव पुत्रं स्वीकरोति गृहकार्यं च करोति ।

इदं तु एकमेव उदाहरणम् । एतादृशाः नैके जनाः कृतभूरिपरिश्रमाः समर्पिताः कोरोनायोद्धारः ।

कोऽपि सर्वेक्षणं कृतवान् यत् भारते सङ्क्रमितानां संख्या न्यूना अस्ति । कदाचित् तस्य कारणं एतदेव यत् भारते सहस्रः मितलाः सन्ति याः अस्माकं परिवारस्य रक्षार्थं स्वस्य परिवारस्य विषये अपि न चिन्तयन्ति ।

धन्या भारतीया नारी दशप्रहरणधारिणी

अद्यतनवार्ता

भारतम्

विश्वम्