Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

नवदेहलीस्थकेन्द्रीयसंस्कृतविश्वविद्यालयस्य तत्वावधाने काश्याम् अखिलभारतस्तरीया शास्त्रीयप्रतियोगिता आयोजिता आसीत्।  प्रतियोगितायाम् अस्याम् उज्जयिनीस्थस्य महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य न्यायदर्शनविभागस्य छात्रेण उद्धवपौराणिकेन न्यायभाषणप्रतियोगितायां गदाधरीयपञ्चलक्षणायां “द्वितीयलक्षणे साध्यभावादिकर्णत्वं केन सम्बन्धेन” इत्यस्मिन् विषये द्वितीयस्थानं रजतपदकं च प्राप्तम्। अस्यां प्रतियोगितायां आभारतात् नाना संस्थाभ्य: समागता: छात्रा: भागं स्वीकृतवन्तः। प्रदेशस्तरे चिताः छात्रा: एव अत्र भागं स्वीकतुं शक्नुवन्ति।अस्मिन् अवसरे  विश्वविद्यालयस्य मान्य: कुलपति: आचार्यविजयकुमारसीजीवर्य: उपस्थित: आसीत्। तेनोक्तं  यत् विश्वविद्यालयस्य छात्राणां प्रदर्शनं उत्तमम् आसीत्| छात्रा: सर्वत्र सर्वविधासु प्रतियोगितासु स्वप्रातिभां प्रदर्शयन्ति पदकानि च अर्जयन्ति। कुलपतिवर्येण छात्राणाम् आचार्याणाञ्च  अभिनंदनं  कृतम्।  अवसरेऽस्मिन् संस्कृतविश्वविद्यालयस्य कुलपतय: , विद्वांसः, आचार्या:, छात्रा:, अन्यजनाश्च  उपस्थिता: आसन्।

अद्यतनवार्ता

भारतम्

विश्वम्