Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

प्रधानमन्त्री नरेन्द्र मोदी मंगलवासरे दिल्लीनगरस्य कर्तव्यमार्गे आयोजितस्य “मेरी मिट्टी मेरा देश” अभियानस्य अमृतकलशयात्रायाः समापनकार्यक्रमं सम्बोधितवान्। देशस्य कृते परमबलिदानं कृतवन्तः वीरपुरुषेभ्य: वीराङ्गनाभ्य: च श्रद्धांजलिम् अर्पयन् प्रधानमन्त्रिणा उक्तं यत् अद्य लौहपुरुषस्य सरदार वल्लभभाई पटेलस्य जन्मदिवसे कर्तव्यमार्गः ऐतिहासिकस्य महायाज्ञस्य साक्षी अस्ति। २०२१ तमस्य वर्षस्य मार्चमासस्य १२ दिनाङ्के महात्मागान्धिन: प्रेरणया साबरमती-आश्रमात् प्रारब्धस्य स्वतन्त्रताया: अमृतमहोत्सवस्य अधुना २०२३ तमस्य वर्षस्य अक्टोबर-मासस्य ३१ दिनाङ्के अर्थात् सरदार वल्लभभाई पटेलस्य जन्मदिवसस्य समापनकाल: अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्