Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अद्य शिक्षकदिवसस्य अवसरे राष्ट्रपतिः द्रौपदी मुर्मूः देशस्य 75 शिक्षकान् राष्ट्रियशिक्षकपुरस्कारेण सममानत। दिल्ली-नगरस्य विज्ञानभवने आयोजिते कार्यक्रमे सर्वेभ्यः शिक्षकेभ्यः प्रशस्तिपत्रं, राङ्कवं, श्रीफलं, ५०,००० रूप्यकाणि च दत्तानि। केचन मद्यपानकर्तृणां विरुद्धं युद्धं कृत्वा बालकान् पाठयन्ति स्म, केचन युद्धकलायां प्रशिक्षणं दत्तवन्तः। अलवरजनपदस्य आशा शिक्षिका अस्ति। २०१४ तमे वर्षे एकस्या: मूकबधिरबालिकाया: उपरि कृषिक्षेत्रे बलात्कार: जात:, तत: आरभ्य सा छात्राभ्य: आत्मरक्षायै युद्धकलां पाठयन्ती अस्ति। तथैव बुलंदशहरस्य शिवकुमार: अभियान्त्रिक्या: अधिकतमं उपयोगं छात्राणां विकासाय करोति तदर्थं स: आर्यभट्ट खगोलीयशालाया: निर्माणमपि अकरोत्। तथैव अन्ये शिक्षका: अपि परम्परागतपद्धते: अतिरिक्तं विशेषं कृत्वा सम्मानमिदम् अलभन्।

अद्यतनवार्ता

भारतम्

विश्वम्