Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारतसर्वकारस्य शिक्षामन्त्रालयस्याधीना भारतीयभाषासमितिः, महर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालयस्य संस्कृतशिक्षणप्रशिक्षणज्ञान-विज्ञानसंवर्धनकेन्द्रम्  इत्यनयोः संयुक्ततत्त्वाधाने चतुर्तमे दिनाङ्के विश्वविद्यालयस्य योगेश्वरश्रीकृष्णभवने संस्कृतध्येयवाक्यानां विश्लेषणम्  इत्यस्मिन् विषये त्रिदिवसीयराष्ट्रियकार्यशालायाः उद्घाटनम् अभवत्। 

कार्यक्रमे मुख्यातिथिरूपेण विराजमानेन विक्रमविश्वविद्यालयस्य कुलपतिवर्येण अखिलेशकुमारपांडेयमहोदयेन उक्तं यत् संस्कृतं ज्ञान-विज्ञानस्य भाषा वर्त्तते। संस्कृते निहितं ज्ञानविज्ञानम् अत्यन्तं पुरातनं लोकोपकारकम् अस्ति संस्कृतस्य विज्ञानस्य च समन्वयेन भारतं पुनः विश्वगुरु: भवितुं शक्यते। संस्कृते महत्त्वपूर्णज्ञानराशिः उपनिबद्धो वर्त्तते। अस्या: महिम्नः सर्वेऽपि परिचिताः सन्ति। कार्यक्रमस्य अध्यक्षः विश्वविद्यालयस्य माननीय: कुलपति: आचार्य: विजयकुमारसीजीमेनन्महोदय: उक्तवान् यत्  संस्कृतग्रन्थेषु नानाविधाविष्काराः तत्त्वरूपेण निहिताः वर्त्तन्ते। अतः  संस्कृतम् अवश्यं पठनीयम्। आधुनिककाले अपि संस्कृतभाषाप्रयोगस्य अनिवार्यता अनुभूयते। भारतं नानाभाषाभि: समृद्धराष्ट्रं  वर्त्तते। संस्कृतं तासां भाषाणां  मुकुटमणि: अस्ति। संस्कृते  निहितानां भाषावैज्ञानिकानां तत्वानाम् अन्वेषणमन्वरतं भारते जायमानम्  अस्ति। भारतस्य सर्वा: भाषा: संस्कृतात् उद्भूता: अनुप्राणिता: च  सन्ति। कार्यशालायामस्यां भारतीयभाषासमित्याः उद्देश्यानुगुणं सस्कृतध्येयवाक्यानां सरलसंस्कृतभाषया, हिन्दी-आङ्ग्ल भाषाभ्याञ्च संसाधकैः अनुवादकार्यं  सम्पादितम्। कार्यक्रमस्य सञ्चालनं समन्वयकेन डॉ.दिनेशचौबेमहोदयेन, आभारप्रदर्शनं  कुलसचिवेन डॉ. दिलीपसोनीमहोदयेन कृतम्। कार्यक्रमेऽस्मिन्  विश्वविद्यालयस्य सर्वे विभागाध्यक्षा: आचार्या:, छात्रा:, शोधच्छात्राः, नगरस्य गणमान्यजनाः, पत्रकाराश्च उपस्थिता: आसन्। 

वार्ताहर: -  डॉ.दिनेश चौबे, उज्जयिनी 

अद्यतनवार्ता

भारतम्

विश्वम्