Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

 उज्जयिनीस्थस्य महर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालये  देशस्य प्रतिष्ठितस्य कालिदाससंस्कृताकादम्या: नवनियुक्तनिदेशकस्य डॉ. श्रीगोविंदगंधेवर्यस्य विश्वविद्यालयस्य माननीयै: कुलपतिवर्यै: आचार्यविजय कुमारसीजीमहोदयै: अभिनंदनं  सम्मानं च विहितम् , विश्वविद्यालयेन  प्रकाशितं साहित्यञ्च उपहाररूपेण प्रदत्तम्। कुलपतिवर्यै:  गंधेमहोदयस्य अभिनंदनं कृत्वा  उक्तं यत् पाणिनिविश्वविद्यालय: तथा च कालिदाससंस्कृतअकादमी इति संस्थाद्वयं  संस्कृतभाषाया:  प्रचारस्य एवञ्च  संवर्धनस्य  कार्यं करोति अग्रेऽपि  परस्परसहयोगेन संस्कृतभाषाया: उन्नयनाय विकासाय च कार्यं कर्तुं  प्रतिबद्धोऽस्ति। अवसरेऽस्मिन्  डॉ. गोविंदगन्धेमहोदयै: विश्वविद्यालयस्य माननीयकुलपतिवर्याणां  सम्माननं कृतम् उक्तञ्च पाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य  सहयोगेन अकादमी सम्पूर्णप्रदेशे संस्कृत-संस्कृत्या:  संरक्षणार्थं  मिलित्वा कार्यं कर्तुं कृतसङ्कल्पोऽस्ति ।  अस्मिन्नवसरे संस्कृतशिक्षणप्रशिक्षणज्ञान विज्ञानसंवर्धनकेंद्रस्य निदेशक: व्याकरणविभागाध्यक्षश्च डॉ. अखिलेशकुमारद्विवेदी, ज्योतिष विभागाध्यक्ष: डॉ. शुभमशर्मा डॉ.अनिलमुवेल: डॉ.अजयराठी तथा विश्वविद्यालयस्य सर्वेsपि  प्राध्यापका: उपस्थिता: आसन्।

डॉ.दिनेश चौबे, उज्जयिनी 

अद्यतनवार्ता

भारतम्

विश्वम्