Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

किं भवन्तः कदापि कल्पयितुं शक्नुवन्ति यत् भवननिर्माणाय सीमेण्ट इति वज्रचूर्णं वालुकां च विहाय आवरणं कर्तुं शक्यते? परन्तु एतत् अधुना शक्यम् अस्ति। गुजरातस्य एकः युवकः एतादृशं चूर्णं निर्मितवान् अस्ति यस्य विषये भवन्तः आश्चर्यचकिताः भविष्यन्ति। युवकः षड् वर्षाणि यावत् निरन्तरं संशोधनं कृत्वा एकं अद्वितीयं उत्पादं विकसितवान् अस्ति, यस्मिन् प्लास्टर इत्यस्य कृते वालुकायाः वज्रचूर्णस्य आवश्यकता नास्ति। न केवलम् एतत्, एतस्य उपयोगानन्तरं जलस्य सिञ्चनस्य आवश्यकता नास्ति । IIT Mumbai इत्यनेन अपि अस्य उत्पादस्य परीक्षणं कृत्वा एतत् प्रमाणीकृतम् अस्ति।

संशोधकस्य निर्मलपटेलस्य कथनानुसारं वालुकायाः यथा उपयोगः भवति तत् दृष्ट्वा वालुकायाः पर्यायः चिन्तनीयः भवति एव। वालुकाव्यवसाये अपराधिनः प्रविष्टाः सन्ति। नद्याः सिकतानिष्कासनस्य अवैधं कार्यं प्रचलति। प्राकृतिकदृष्ट्या अपि एतत् हानिकारकम् अस्ति। प्लास्टर इत्यस्य कृते जलोपयोगः अपि अत्यधिकः भवति।  एतत् सर्वं चिन्तयित्वा षट् वर्षाणि यावत् स्ंशोधनं कृतम्। ७४२ वारं मम प्रयत्न: निष्फलः अभवत्। ७४३ तमे प्रयत्ने सफलता प्राप्ता येन अभियन्तार: तज्ज्ञा: अपि संतुष्टा:। 

एतत् संशोधितं चूर्णं षण्णां तत्वानां मिश्रणम् अस्ति। एतस्य उत्पादनसामग्र्याः स्रोतः छोटा-उदेपुरतः झारखण्डतः च उपलभ्यते। अधुना ४०० रूप्यकाणां सीमेन्टमूल्यम् अस्ति परन्तु ’हेरिटेक’ इति उत्पादस्य मूल्यं केवलं २०० रूप्यकाणि एव सन्ति। 

संशोधनमिदं लोकभोग्यं कर्तुम् इतोऽपि अवरोधाः सन्ति यतः सीमेन्ट-उत्पादकाः व्यवसायिनः च अयम् उत्पादः विपण्यां न आगच्छेत् तदर्थं येन केन प्रकारेण प्रयत्नरताः सन्ति। एते सीमेन्ट-उत्पादकाः कथञ्चित् अपि आपणिकान् भाययन्ति। इति

अद्यतनवार्ता

भारतम्

विश्वम्