Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

रविवासरे प्रधानमन्त्री नरेन्द्रमोदी नूतनसंसद्भवनस्य उद्घाटनं कृतवान्। प्रातः ७:३० वादने नूतनसंसद्भवनं प्राप्तवान्। तत: राष्ट्रपितरं महात्मानं गान्धिनं प्रणम्य ततः यज्ञपूजने उपविष्टः। अद्य विनायकसावरकरस्य जन्मदिनम् अपि अस्ति अत: नरेन्द्रमोदी सावरकरस्य चित्रे पुष्पाणि अपि अर्पितवान्। 

पूजानन्तरं प्रप्रथमं प्रधानमन्त्री मोदी  राजदण्डं साष्टाङ्गं प्रणतवान्। ततः तमिलनाडुतः आगता: साधव: प्रधानमन्त्रिणे राजदण्डं समर्पितवन्तः। तदनन्तरं स: सदनस्य सभापते: आसनस्य पार्श्वे राजदण्डस्य स्थापनां कृतवान्। अवसरेऽस्मिन् लोकसभाध्यक्ष: ओम बिरला उपस्थित: आसीत्। कार्यक्रमे प्रधानमन्त्रिणा श्रमयोगिनां सम्माननम् अपि कृतम्। सर्वधर्मसभया कार्यक्रमः  सम्पन्न: जात:।

अद्यतनवार्ता

भारतम्

विश्वम्