Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

हिमाचलस्य डॉ.गौरवशर्मणा न्यूजीलैण्ड्देशस्य वैलिंगटनस्थिते संसद्भवने तत्रत्यया स्थानिक-मौरीभाषया सह संस्कृतभाषायामपि शपथं स्वीकृतम् गत-अक्टुबरमासे न्यूजीलैण्ड्देशस्य हैमिल्टन-पश्चिमस्थानात् गौरवेण लेबरपार्टी इति पक्षतः निर्वाचने विजयः प्राप्तः  भारतस्य जननीभाषया संस्कृतभाषया शपथग्रहणेन सर्वत्र तस्य प्रशंसा अभवत्

डॉ.गौरव: मूलतः हमरपुरस्य गलोड-हडेटाक्षेत्रस्य निवासी आसीत्। तस्य पिता राज्य-विद्युत्-मण्डलस्य एस.डी.. इति पदे कार्यरतः आसीत्। तदनन्तरं पदं त्यक्त्वा सः सपरिवारं विदेशं अगच्छत्। संस्कृतेन शपथग्रहणेन समग्रे विश्वे भारतस्य सम्मानं वर्धितवतः डॉ. गौरवशर्मणः जन्म 1987 तमे वर्षे अभवत्। गौरवः हमीरपुरे धर्मशालायां शिमलायां अधीतवान् अस्ति तदनु सः न्यूजीलैण्ड्देशे वैदकीयं वाशिंगटनप्रेदेशात् एमबीए इति व्यवस्थापनं पठितवान् अस्ति। अधुना सः हैमिल्टनप्रदेशे एव जनरल-प्रैक्टिशनर-रूपेण कार्यरतः अस्ति। तेन न्यूजीलैंड-स्पेन-अमेरिका-नेपाल-वियतनाम-मंगोलिया-स्विट्जरलैंड-भारतादिषु देशेषु जनस्वास्थ्यं एवं नीतिनिर्धारणक्षेत्रे कार्यं कृतम् अस्ति।

गौरवेण प्रप्रथमं मौरीभाषायां शपथं स्वीकृतं पश्चात् संस्कृतभाषया एतेन तेन द्वयोः देशयोः सांस्कृतिकपरम्परां प्रति सम्मानं व्ययीकृतम्।

संस्कृतेन शपथं किमर्थं इति प्रश्नं पृष्टे सति तेनोक्तं यत् सर्वान् सन्तोषयितुं कठिनम् अस्ति। पूर्वं तथा विचारितं यत् हिन्दीभाषया शपथं स्वीकरणीयं परन्तु तेन मातृभाषायाः पंजाबीभाषायाः वा किम्? अतः सर्वासां भाषाणां जननी संस्कृतं इति मत्वा संस्कृतन शपथं स्वीकृतम्।

डॉ. शर्मा  द्वीतियः राजनेता अस्ति येन भारतात् बहिः संस्कृतेन शपथं स्वीकृतम्। एतस्मात् प्राक् दक्षिण-अमेरिकायाः सूरीनामदेशस्य भारतीयमूलस्य राष्ट्रपतिः चन्द्रिकाप्रसादः सन्तोखी जुलाईमासे स्वहस्ते वेदं स्वीकृत्य संस्कृतन शपथं स्वीकृतमासीत्।

अद्यतनवार्ता

भारतम्

विश्वम्