Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

१९ मार्च दिनाङ्के लण्डन्नगरे भारतीय-उच्चायोगस्य उपरि आक्रमणं कृतवन्तः केचन अभियुक्ताः खालिस्तानसमर्थकाः चिह्निताः सन्ति। तै: उपद्रविभि: भारतस्य त्रिवर्णस्य ध्वजस्य अपमानं कृतम् आसीत्।  एनआईए इत्यनेन बुधवासरे ४५ अभियुक्तानां चित्राणि प्रकाशितानि सन्ति। लुकआउट् नोटिस अपि प्रकाशिता अस्ति। चित्रेषु दृश्यमानानां जनानां संज्ञानार्थं साहाय्यं कर्तुं जनसमूहेन आह्वानं कृतम् अस्ति। अस्य कृते व्हाट्सएप्प-सङ्ख्या अपि प्रसारिता अस्ति। 

अद्यतनवार्ता

भारतम्

विश्वम्