Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

ओडिशाराज्ये बालासौर-रेलदुर्घटनायाः द्वयोः दिवसयोः अनन्तरं ओडिशा-सर्वकारेण प्रतिपादितं यत् अस्यां दुर्घटनायां २८८ न, अपितु २७५ जनाः मृताः। राज्यस्य मुख्यसचिवः प्रदीपजेना रविवासरे अवदत् यत् केषाञ्चन शवानां गणना द्विवारं कृता, यस्मात् कारणात् मृतानां संख्यायां विसंगतिः अभवत्। अस्यां दुर्घटनायां ११७५ जनाः गम्भीररूपेण व्रणिता: सन्ति, येषु ७९३ जनाः चिकित्सां कृत्वा मुक्ताः अभवन्।

रेलमन्त्री अश्विनीवैष्णवः रविवासरे दुर्घटनास्थलस्य निरीक्षणं कृत्वा अवदत् – इलेक्ट्रॉनिक इन्टरलॉकिंग् इत्यस्मिन् परिवर्तनस्य कारणेन दुर्घटना अभवत्। अस्माभिः उत्तरदायिनां परिचयः कृतः अस्ति। तदनन्तरं रेलवेमण्डलस्य परिचालनव्यापारविकाससदस्यः जयावर्मावर्यया दिल्लीनगरे पत्रकारसम्मेलनस्य अनन्तरं अवदत् - प्रारम्भे इदं प्रतीयते यत् संकेते दोषः आसीत्।

एतेन सह रेलमन्त्रालयेन संवादार्थं सहायतायै च दूरभाषक्रमाः प्रसारिता: सन्ति। 

  • इमरजेंसी कंट्रोल रूम: 6782262286
  • हावड़ा: 033-26382217
  • खड़गपुर: 8972073925, 9332392339
  • बालासोर: 8249591559, 7978418322
  • कोलकाता शालीमार: 9903370746

अद्यतनवार्ता

भारतम्

विश्वम्