Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

पूर्वराष्ट्रपतिरामनाथकोविन्दस्य अध्यक्षतायां बुधवासरे (२५ अक्टोबर्) देशे 'एकराष्ट्रं एकनिर्वाचनम्' इति विषये समित्या: द्वितीयसमागमस्य आयोजनं जातम्। उपवेशने केन्द्रीय-गृहमन्त्री अमितशाह:, पूर्व सॉलिसिटर जनरल हरीश साल्वे, जम्मू-कश्मीर के पूर्व सीएम गुलाम नबी आजाद: विधि-आयोगस्य अध्यक्ष ऋतुराज अवस्थी च उपस्थिता: आसन्। अस्मिन् समये समित्या विधि-आयोगस्य अध्यक्ष: अपि द्वितीयसमागमे उपस्थातुम् आमन्त्रित: आसीत्। देशे युगपत् निर्वाचनं कथं कर्तुं शक्यते? इत्यस्य मार्गदर्शनाय परामर्शाय च स: आहूतः। सूत्रानुसारं आयोगेन ज्ञापितं यत् सम्प्रति २०२४ तमे वर्षे एकराष्ट्रम् एकनिर्वाचनं क्रियान्वितं कर्तुं न शक्यते किन्तु २०२९ तमे वर्षे क्रियान्वयनं शक्यते। ततः पूर्वं संविधानस्य संशोधनं कर्तव्यं भविष्यति।

अद्यतनवार्ता

भारतम्

विश्वम्