Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

सोमालियादेशस्य तटस्य समीपे अपहृतं वस्तुवाहकपोतस्य एम.वी.लीला नॉरफोक इत्यस्य समीपं भारतीयनौसेनायाः युद्धपोत: प्राप्त:इति सैन्याधिकारिणः अवदन्। भारतीयसैन्यपदाधिकारी उक्तवान् यत् अपहृतस्य पोतस्य उदग्रयानद्वारा निरीक्षणं क्रियते। सोमालियातटस्य समीपे अपहृतात् एम.वी.लीला नॉरफोक इत्यस्मात् १५ भारतीयाः अन्ये चालकाः च उद्धारिताः सुरक्षिताः च सन्ति। भारतीयसैन्याधिकारिणः अवदन् यत् नौसेनासैनिका: पोतस्य अन्येषु भागेषु अन्वेषणं कुर्वन्त: सन्ति। 

अद्यतनवार्ता

भारतम्

विश्वम्