Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

पाकिस्तानसेनायाः प्रवक्त्रा मेजर-जनरल-आसिफ-गफूरेण वार्ताहरसम्मेलने सम्भवितः मत्तप्रलापः उद्गारितः । रावलपिंडीस्थिते सेनामुख्यालये तेन उक्तं यत् भारतेन अविचिन्त्य एव पाकिस्तानस्य उपरि आरोपः स्थापितः। पाकिस्तानम् एतस्य उत्तरम् अवश्यं दास्यति। कश्मीरस्थैः युवकैः कृत्यमिदम् आचरितम् अस्ति। वयं युद्धार्थं सिद्धतां न कुर्मः परन्तु भारतं युद्धस्य कृते भर्त्सयते। भर्त्सनायाः प्रत्युत्तरम् अस्माकम् अधिकारः अस्ति। वयं वर्षेभ्यः शान्तेः पुरस्कर्तारः स्मः ।

पाकिस्तानसेनायाः निवेदनं नितरां मत्तप्रलापः एव यतो हि तस्मिन् एव दिने पाकिस्थानस्थेन सङ्घटनेन जैश-ए-मोहम्मदद्वारा एतस्य दुष्कृत्यस्य दायित्वं स्वीकृतमस्ति। सम्पूर्णे विश्वे पाकिस्तानम् आतङ्कवादसमर्थकत्वेन गण्यते । अत एव निवेदनस्यास्य एकम् अक्षरमपि न विश्वासयोग्यः।

अद्यतनवार्ता

भारतम्

विश्वम्