पाकिस्तानस्य पञ्जाबप्रान्ते शिया-सुन्नी-समुदाययोः मध्ये साम्प्रदायिकः संघर्षः प्रकाशितः अस्ति। घटनायामस्यां द्वौ शियाजनौ मृतौ, ३०तः अधिकाः जनाः आहताः च। एतेषु क्षेत्रेषु वर्धमानस्य संघर्षस्य परिणामरूपेण अर्धसैनिकबलाः नियोजिताः सन्ति। प्राप्तप्रतिवेदनानुसारं सोमवासरे (२६ अगस्त) शियासमुदायस्य जनाः इमाम हुसैनस्य चेहलुम इत्यस्य अवसरे शोभायात्रां कर्तुं योजनां कृतवन्तः। परन्तु सुन्नीसमुदायस्य जनाः शोभायात्राया: मार्गस्य विरोधं कृतवन्तः यत्र तेषां मस्जिदम् अस्ति । तदनन्तरं पञ्जाबप्रान्तस्य मियांवालीमण्डलस्य कलाबागनगरे शिया-सुन्नी-समुदाययोः मध्ये साम्प्रदायिकसङ्घर्षः आरब्धः।





















