Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

न केवलं गुजराते अथवा भारते, परन्तु समग्रे विश्वे अद्वितीयं प्रभावं जनयन्तं प्रमुखस्वामिशताब्दीमहोत्सवस्य सिद्धता प्रायः पूर्णा जाता अस्ति। महते साधवे प्रमुखस्वामिमहाराजाय श्रद्धाञ्जलिं समर्पयितुं सम्पूर्णविश्वात् लक्षश: जनाः समुपस्थिताः भविष्यन्ति। बी.ए.पी.एस.स्वामिनारायणसंस्थाद्वारा 600 एकरपरिमितायां विशालभूम्यां निर्मिते महोत्सवस्थले सहस्रशः स्वयंसेवकाः अहर्निशं कार्यरताः सन्ति। बालकैः निर्मिता, बालकै: च चालिता बालनगरी उत्सवस्यास्य प्रमुखम् आकर्षणम् अस्ति। एतादृशस्य अविस्मरणीयस्य उत्सवस्य उद्घाटनं प्रधानमन्त्री मोदी अपि च महन्तस्वामिमहाराजः करिष्यतः।

अद्यतनवार्ता

भारतम्

विश्वम्