Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

प्रधानमन्त्री नरेन्द्रमोदी गुरुवासरे एकदिनस्य कृते उत्तराखण्डस्य भ्रमणं कृतवान्। स: पिथौरागढस्य कैलाश-व्यूप्वाइण्ट इति दर्शनस्थलात् प्रात: ९ वादने आदिकैलाशस्य दर्शनं कृतवान्।  स्थलमिदं जोलिङ्गकोङ्ग क्षेत्रे अस्ति यतः कैलाशपर्वतः स्पष्टतया दृश्यते। एतदर्थं चीननियन्त्रितं तिब्बतदेशं गन्तुम् आवश्यकता न भविष्यति। ततः सः भारत-चीन-सीम्न: समीपस्थं गुञ्जीग्रामं गतः। पश्चात् अलमोरा-नगरस्य जागेश्वरधाम्नि प्रणामम् अकरोत्।

दिनान्ते पिथौरागढे जनसभां सम्बोधयन् प्रधानमन्त्रिमहोदयः अवदत् – सीमाग्रामाणां विकासं वयं अन्तिमग्रामरूपेण न, अपितु देशस्य प्रथमग्रामरूपेण आरब्धवन्त:। जीवन्तग्रामकार्यक्रमस्य अन्तर्गतं एतादृशाः सीमाग्रामाः विकसिताः सन्ति। एतत् कार्यं पूर्वसर्वकारैः अपि कर्तुं शक्यते स्म, परन्तु पूर्वसर्वकारैः सीमाक्षेत्रस्य विकासः न कृतः यतः शत्रुः तस्य लाभं गृहीत्वा अन्तः आगमिष्यति इति भयमासीत्।

अद्यतनवार्ता

भारतम्

विश्वम्