Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

फाल्गुनमासस्य पूर्णिमा रविवासरे सोमवासरे च भविष्यति। वर्षेऽस्मिन् पूर्णिमा २४ मार्च दिनाङ्के प्रातः ९:३० वादने आरभ्य २५ दिनाङ्के रात्रौ १२:३० वादनपर्यन्तं स्थास्यति। अनेन २४ दिनाङ्के होलिकादहनम् अपि च सूर्योदयसमये २५ दिनाङ्के पूर्णिमातिथिः इति कारणतः दिनेऽस्मिन् स्नान-दान-व्रत-पूजादय: भविष्यन्ति । एषा तिथिः अतीव विशेषा मन्यते। परम्परानुसारं फाल्गुनमासस्य पूर्णिमादिने उपवासेन महत्पुण्यप्राप्ति: भवति तथा च सर्वविधक्लेशानां दूरीकरणं भवति अतः अस्मिन् दिने उपवासः क्रियते। अस्मिन् दिने विष्णो: विशेषपूजा, सत्यनारायणकथापाठस्य च परम्परा अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्