Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

पाकिस्तानस्य प्रख्याते “द एक्स्प्रेस ट्रिब्युन” इति वर्तमानपत्रे शहजादचौधरी द्वारा सम्पादकीयं लिखितम् अस्ति। एतस्मिन् प्रथमवारं भारतस्य प्रशंसा कृता अस्ति। भारतदेशः अद्यत्वे एकः महान् शक्तियुक्तः देशः अस्ति। यस्मिन् काले अमेरिका-रूस-देशयोः युक्रेन-विषये परस्परं विरोधः अस्ति तथापि तस्मिन् काले अमेरिका रूसदेशः च भारतेन सह स्थितौ स्तः। इदं भारतस्य उत्तमकूटनीतेः उदाहरणम् अस्ति इति तेन स्पष्टतया लिखितमस्ति। 

सामान्यतया भारतस्य विषये पाकिस्तानस्थानां प्रसारमाध्यमानां दृष्टिकोणः विपरितम् एव वर्तते परन्तु भारतस्य एतादृशं प्रशंसाकरणं तत्रत्येषु माध्यमेषु महत् परिवर्तनं वक्तुं शक्यते। (चित्रं - प्रतीकात्मकम्)

अद्यतनवार्ता

भारतम्

विश्वम्