Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

संसद: शीतकालीनसत्रे सद्यः पारितस्य त्रयः संशोधिताः आपराधिकविधेयकाः सोमवासरे (25 दिसम्बर) राष्ट्रपतिद्रौपदी मुर्मू इत्यनया अनुमोदिताः। अनेन सह भारतीयन्यायसंहिताया:, भारतीयनागरिकरक्षासंहिताया:, भारतीयसाक्ष्यविधेयकस्य च  विधिनिर्माणस्य मार्गः सरल: अभवत्। अधुना भारतीयदण्डसंहिताया: (IPC) भारतीयन्यायसंहिता (द्वितीय) संहिता, दण्डप्रक्रियासंहिताया: (CrPC) भारतीयनागरिकरक्षा (द्वितीय) संहिता, भारतीयसाक्ष्यअधिनियमस्य स्थाने भारतीयसाक्ष्य (द्वितीय) संहिता च स्थापिता: भविष्यन्ति।

अद्यतनवार्ता

भारतम्

विश्वम्