Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

प्रधानमन्त्रिणः नरेन्द्रमोदिनः मातुः हिराबा इत्यस्याः यु.एन.महेता चिकित्सालये शुक्रवासरे प्रातः सार्धत्रिवादने निधनं जातम्। तस्याः वयः १०० वर्षाणि आसन्। श्वसनसमस्याकारणात् तस्या: चिकित्सालये उपचारः चलति स्म। 

स्वजनन्याः मृत्युवार्तां प्राप्य नरेन्द्रमोदी अद्य प्रातः गान्धिनगरे रायसण इति स्थाने स्वभ्रातुः पङ्कजमहोदयस्य गृहं प्राप्तः आसीत्। अत्र सः अन्तिम-श्रद्धांजलिम् अयच्छत् तदनन्तरं तस्याः अन्तिमयात्रा प्रारब्धा। तस्याः सेक्टर ३० शवदाहगृहे दाहसंस्कारः जातः। अन्त्येष्टौ मोदिपरिवारः भावुकः आसीत् । 

मोदी स्वस्य निर्धारितकार्यक्रमेषु एकमपि कार्यक्रमं निरस्तं न कृतवान्। अन्त्येष्ट्यानन्तरं सः साक्षात् अहमदाबादस्य राजभवनं गतः । इतः एव सः राष्ट्रियगङ्गापरिषदः सभायां आभासीयव्यवस्थामाध्यमेन सम्मिलितः ।

पुत्रत्वेन कर्तव्यं कृत्वा प्रधानमन्त्रिरूपेण अपि कर्तव्यं आचरितवान्। सः गान्धीनगरराजभवनतः वीडियो-सम्मेलनद्वारा उपस्थितः अभवत्। वन्दे भारत-रेलयानस्य उपहारं तेन बङ्गालाय वीडियो-सम्मेलन-माध्यमेन दत्तम्। 

अद्यतनवार्ता

भारतम्

विश्वम्