Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

मार्चमासस्य २३ दिनाङ्के सूरतन्यायालयेन मानहानिप्रकरणे वर्षद्वयस्य कारावासस्य दण्डः दत्तः । परन्तु अल्पकाले एव तस्य प्रतिभूः अभवत्। २७ मार्च दिनाङ्के लोकसभा-आवाससमित्या राहुलाय प्रदत्तं १२ तुघलकरोड् इति आधिकारिकनिवासस्थानं रिक्तं कर्तुं सूचना प्रेषिता आसीत्। सूचनां प्राप्य राहुलः लोकसभासचिवालयस्य उपसचिवं डॉ. मोहित रंजनं प्रति उत्तरम् प्रेषितवान्। अधुना सः सर्वकारीयावासं त्यक्त्वा सोनियागान्धिनः गृहं (१० जनपथं) गमिष्यति। राहुलेन स्वपत्रे लिखितमस्ति यत् अस्मिन् गृहे मम बहवः सुस्मृतयः सक्ताः सन्ति। इति । सोनियागान्धिनः आधिकारिकनिवासः १० जनपथ इति प्रधानमन्त्रिनिवासात् अपि बृहत् अस्ति। 

अद्यतनवार्ता

भारतम्

विश्वम्